सोमवार, 30 नवंबर 2020

*तन्त्रनामानि*

*तन्त्रनामानि*

स्वतन्त्रतन्त्रं फेत्कारीतन्त्रमुत्तरतन्त्रकम् ।  
नीलतन्त्रं वीरतन्त्रं कुमारीतन्त्रमुज्ज्वलम् ॥ कालीनारायणीतन्त्रे तारिणीतन्त्रमुत्तमम् । 
बालातन्त्रञ्च समयातन्त्रं भैरवतन्त्रकम् ॥ 
भैरवीत्रिपुरातन्त्रे वामकेश्वरतन्त्रकम् । 
कुक्कुटेश्वरतन्त्रञ्च मातृकातन्त्रमेव च ॥  
सनत्कुमारतन्त्रञ्च विशुद्धेश्वरतन्त्रकम् ।  
सम्मोहनाख्यतन्त्रञ्च गौतमीयञ्च तन्त्रकम् ॥
बृहद्गोतमीयतन्त्रं भूतभैरवतन्त्रकम् ।
चामुण्डापिङ्गलातन्त्रे वाराहीतन्त्रकं तथा ॥ 
मुण्डमालाख्यतन्त्रञ्च योगिनीतन्त्रमुत्तमम् । 
मालिनीविजयं तन्त्रं तन्त्रं स्वच्छन्दभैरवम् ॥ 
महातन्त्रं शक्तितन्त्रं तन्त्रं चिन्तामणिं परम् ।  
उन्मत्तभैरवं तन्त्रं त्रैलोक्यसारतन्त्रकम् ॥  
विश्वसाराह्वयं तन्त्रं तथा तन्त्रामृताभिधम् । 
महाफेत्कारीयतन्त्रं वायवीयञ्च तोडलम् ॥ 
मालिनीललितातन्त्रे त्रिशक्तितन्त्रकं तथा ।  
राजराजेश्वरीतन्त्रं महामोहस्वरोत्तरम् ॥ 
गवाक्षतन्त्रं गान्धर्व्वं तन्त्रं त्रैलोक्यमोहनम् । 
हंसमाहेश्वरं हंसपरमेश्वरतन्त्रकम् ॥ 
कामधेन्वाख्यतन्त्रञ्च तन्त्रं वर्णविलासकम् । 
मायातन्त्रं मन्त्रराजं कुब्जिकातन्त्रमुत्तमम् ॥ 
विज्ञानलतिकां लिङ्गागमं कालोत्तरं तथा ॥
ब्रह्मजामलकञ्चादिजामलं रुद्रजामलम् ॥ 
बृहज्जामलकं सिद्धजामलं कल्पसूत्रकम् । 
मत्स्यसूक्तं कल्पसूक्तं कामराजं शिवागमम् ॥
उड्डीशञ्च कुलोड्डीशमुड्डीशं वीरभद्रकम् ।  
भूतडामरकं तद्बत् डामरं यक्षडामरम् ॥ 
कालिकाकुलसर्व्वस्वं कुलसर्व्वस्वमेव च । 
कुलचूडामणिं दिव्यं कुलसारं कुलार्णवम् ॥  
कुलामृतकुलावल्यौ तथा कालीकुलार्णवम् ।  
कुलप्रकाशं वाशिष्ठं सिद्धसारस्वतं तथा ॥  
योगिनीहृदयं कालीहृदयं मातृकार्णवम् । 
योगिनीजालकुरकं तथा लक्ष्मीकुलार्णवम् ॥ 
तारार्णवं चन्द्रपीठं मेरुचन्द्रं चतुःशतीम् ।  
तत्त्वबोधं महोग्रञ्च स्वच्छन्दसारसंग्रहम् ॥ 
ताराप्रदीपं सङ्केतचन्द्रोदयमतिस्फुटम् ।  
षट्त्रिंशत्तत्त्वकं लक्ष्यनिर्णयं त्रिपुरार्णवम् ॥
विष्णुधर्म्मोत्तरं मन्त्रदर्पणं वैष्णवामृतम् ।  
मानसोल्लासकं पूजाप्रदीपं भक्तिमञ्जरीम् ॥ 
भुवनेश्वरीं पारिजात प्रयोगसारमुत्तमम् ।  
कामरत्नं क्रियासारं तथैवागमदीपिकाम् ॥ 
भावचूडामणिग्रन्थं तन्त्रचूडामणिं परम् ।  
बृहच्छ्रीक्रमसंज्ञञ्च तथा श्रीक्रमसंज्ञकम् ॥
सिद्धान्तशेखरं ग्रन्थं तां गणेशविमर्शिनीम् ।  
मन्त्रमुक्तावलीं तत्त्वकौमुदीं तन्त्रकौमुदीम् ॥ 
मन्त्रतन्त्रप्रकाशाख्यं श्रीरामार्च्चनचन्द्रिकाम् । शारदातिलकं ज्ञानार्णवं सारसमुच्चयम् ॥  
कल्पद्रुमं ज्ञानमालां पुरश्चरणचन्द्रिकाम् ।  
आगमोत्तरकं तत्त्वसागरं सारसंग्रहम् ॥ 
देवप्रकाशिनीं तन्त्रार्णवञ्च क्रमदीपिकाम् । 
तारारहस्यं श्यामाया रहस्यं तन्त्ररत्नकम् ॥
तन्त्रप्रदीपं ताराया विलासं विश्वमातृकाम् । 
प्रपञ्चसारं तं तन्त्रसारं रत्नावलीं तथा ॥”

0 टिप्पणियाँ:

एक टिप्पणी भेजें

सदस्यता लें टिप्पणियाँ भेजें [Atom]

<< मुख्यपृष्ठ