*प्रेतसूक्तम*
प्रेतसूक्तम् -
ॐ अपेतो यन्तु पणयोऽसुम्ना देवपीयव: । अस्य लोकः सुतावतः । धुभिरहोभिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै ।।१ ॥ सविता ते शरीरेभ्यः पृथिव्यां लोकमिच्छतु ।
तस्मै युज्यन्तामुस्रियाः ॥२ ॥
वायुः पुनातु सविता पुनात्वग्नेर्भ्राजसा सूर्य्यस्य वर्चसा । विमुच्यन्तामुस्त्रियाः ॥३ ॥
अश्वत्थे वो निषदनं पणे वो वसतिष्कृता । गोभाजऽ इत्किला सथयत्सनवथ पूरुषम् ॥४ ॥
सविता ते शरीराणि मातुरुपस्थऽआ वपतु । तस्मै पृथिवि शं भव ॥५ ॥
प्रजापतौ त्वा देवतायामुपोदके लोके निदधाम्यसौ । अप नः शोशुचदधम् ॥६ ॥
परं मृत्योऽअनु परेहि पन्थां यस्तेऽअन्य इतरो देवयानात् । चक्षुष्मंते शृण्वते ते ब्रवीमि मा नः प्रजा (गूं) रीरिषो मोत वीरान् ॥७ ॥
शं वातः श (गूं) हि ते घृणिः शं ते भवन्त्विष्टकाः । शं ते भवन्त्वग्नयः पार्थिवासो मा त्वाभि शूशुचन् ।। ८ ।।
कल्पतान्ते दिशस्तुभ्यमापः शिवतमास्तुभ्यं भवन्तु सिन्धवः । अन्तरिक्ष (गूं) शिवड्ंकल्पतान्ते दिशः सर्वाः ॥ ९ ॥
अश्मन्वती रीयते स (गूं) रभध्वमुत्तिष्ठत प्र तरता सखायः । अत्रा जहीमोऽशिवा ये ऽअसञ्छिवान्वयमुत्तरेमाभि वाजान् ।। १० ॥ अपाघमप किल्बिष मपकृत्या मपो रपः । अपामार्ग त्व मस्म दपदुः ष्वप्न्य (गूं) सुव।।११ ।।
सुमित्रिया नऽआपऽ ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयन्द्विष्मः ॥१२ ॥ अनड्वाहमन्वारभामहे सौरभेय (गूं) स्वस्तये । स न ऽ इन्द्रऽइव देवेभ्यो वह्निः सन्तारणो भव ॥१३ ॥
उद्वयन्तमसस्परि स्वः पश्यन्त उत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।। १४॥
इमञ्जीवेभ्यः परिधिन्दधामि मैषान्नु गादपरोऽअर्थमेतम् । शतञ्जीवन्तु शरदः पुरुचीरन्तर्मृत्युन्दधतां पर्वतेन ।। १५ ।। अग्नऽ आयू (गूं) षि पवसऽआ सुवोर्जामिषञ्च नः । आरे बाधस्व दुच्छुनाम् ।। १६ ॥ आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतांदिमान्त्स्वाहा ।।१७ ।। परीमे गामनेषत पर्यग्निमहृषत । देवेष्वक्रत श्रवः कऽ इमाँ २ ऽआ दधर्षति
॥१८ ॥ क्रव्यादमग्निं प्र हिणोमि दूरञ्यमराज्यङ्गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ।।१६ ।। वह वपाञ्जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान् पराके । मेदसः कुल्याऽउप तान्त्स्रवन्तु सत्या ऽ एषामाशिषः सन्नमन्ता (गूं) स्वाहा ।।२० ।। स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । अप नः शोशुचदघम् ।।२१ ॥ अस्मात्त्वमधि जातोऽसि त्वदयजायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा।। २२ ।। ...
0 टिप्पणियाँ:
एक टिप्पणी भेजें
सदस्यता लें टिप्पणियाँ भेजें [Atom]
<< मुख्यपृष्ठ