गुरुवार, 31 दिसंबर 2020

श्रीविचित्रवीरहनुमन्मालामन्त्रः

श्रीविचित्रवीरहनुमन्मालामन्त्रः 
श्रीगणेशाय नमः ।
ॐ अस्य श्रीविचित्रवीरहनुमन्मालामन्त्रस्यश्रीरामचन्द्रो भगवानृषिः, अनुष्टुप् छन्दः,श्रीविचित्रवीरहनुमान् देवता, ममाभीष्टसिद्ध्यर्थेमालामन्त्र जपे विनियोगः ।अथ करन्यासः ।ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।ॐ ह्रीं तर्जनीभ्यां नमः ।ॐ ह्रूं मध्यमाभ्यां नमः ।ॐ ह्रैं अनामिकाभ्यां नमः ।ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।अथ अङ्गन्यासःॐ ह्रां हृदयाय नमः ।ॐ ह्रीं शिरसे स्वाहा ।ॐ ह्रूं शिखायै वषट् ।ॐ ह्रैं कवचाय हुम् ।ॐ ह्रौं नेत्रत्रयाय वौषट् ।ॐ ह्रः अस्त्राय फट् ।अथ ध्यानम् ।वामे करे वैरवहं वहन्तं शैलं परे श‍ृङ्खलमालयाढ्यम् ।दधानमाध्मातसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ॐ नमो भगवते विचित्रवीरहनुमतेप्रलयकालानलप्रभाज्वलत्प्रतापवज्रदेहायअञ्जनीगर्भसम्भूताय प्रकटविक्रमवीरदैत्य-दानवयक्षराक्षसग्रहबन्धनाय भूतग्रह-प्रेतग्रहपिशाचग्रहशाकिनीग्रहडाकिनीग्रह-काकिनीग्रहकामिनीग्रहब्रह्मग्रहब्रह्मराक्षसग्रह-चोरग्रहबन्धनाय एहि एहि आगच्छागच्छ-आवेशयावेशय मम हृदयं प्रवेशय प्रवेशयस्फुर स्फुर प्रस्फुर प्रस्फुर सत्यं कथय कथयव्याघ्रमुखं बन्धय बन्धय सर्पमुखं बन्धय बन्धयराजमुखं बन्धय बन्धय सभामुखं बन्धय बन्धयशत्रुमुखं बन्धय बन्धय सर्वमुखं बन्धय बन्धयलङ्काप्रासादभञ्जन सर्वजनं मे वशमानय वशमानय श्रीं ह्रीं क्लीं श्रीं सर्वानाकर्षय आकर्षयशत्रून् मर्दय मर्दय मारय मारय चूर्णय चूर्णयखे खे खे श्रीरामचन्द्राज्ञया प्रज्ञया मम कार्यसिद्धिकुरु कुरु मम शत्रून् भस्मी कुरु कुरु स्वाहा ॥ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् श्रीविचित्रवीरहनुमतेमम सर्वशत्रून् भस्मी कुरु कुरु हन हन हुं फट् स्वाहा ॥एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥॥ इति श्रीविचित्रवीरहनुमन्मालामन्त्रः सम्पूर्णम् ॥ 
श्री रांदल ज्योतिष कार्यालय सुरेन्द्रनगर पंडयाजी+919824417090

मंगलवार, 1 दिसंबर 2020

नर्मदाष्टकं

नर्मदाष्टकं 

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सु पापजातजातकादिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौ मलौघभारहारिसर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥

महागभीरनीरपूरपापधूतभूतलं
ध्वनत्समस्तपातकारिदारितापदाचलम् ।
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥

सनत्कुमारनाचिकेतकश्यपात्रिषत्पदैः
धृतं स्वकीयमानसेषु नारदादिषतपदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥

अहो धृतं स्वनं श्रुतं महेशिकेशजातटे
किरातसूतबाडबेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारि सर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्यदेहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नर्मदाष्टकं सम्पूर्णम् ॥